Sarga 64: Daśaratha's Death
दशरथदिष्टान्तः
daśarathadiṣṭāntaḥ — word-by-word gloss for all 79 shlokas.
Jump to a shloka · 79 in this sarga
वधमप्रतिरूपं तु महर्षेस्तस्य राघवः । विलपन्नेव धर्मात्मा कौसल्यां पुनरब्रवीत् ।।2.64.1।।
Meaning
तदज्ञानान्महत्पापं कृत्वाहं सङ्कुलेन्द्रियः । एकस्त्वचिन्तयं बुद्ध्या कथं नु सुकृतं भवेत् ।।2.64.2।।
Meaning
ततस्तं घटमादाय पूर्णं परमवारिणा । आश्रमं तमहं प्राप्य यथाख्यातपथं गतः ।।2.64.3।।
Meaning
तत्राहं दुर्बलावन्धौ वृद्धावपरिणायकौ । अपश्यं तस्य पितरौ लूनपक्षाविव द्विजौ ।।2.64.4।।
Meaning
तन्निमित्ताभिरासीनौ कथाभिरपरिक्रमौ । तामाशां मत्कृते हीनौ उदासीनावनाथवत् ।।2.64.5।।
Meaning
शोकोपहतचित्तश्च भयसन्त्रस्तचेतनः । तच्चाश्रमपदं गत्वा भूयः शोकमहं गतः ।।2.64.6।।
Meaning
पदशब्दं तु मे श्रुत्वा मुनिर्वाक्यमभाषत । किं चिरायसि मे पुत्र पानीयं क्षिप्रमानय ।।2.64.7।।
Meaning
यन्निमित्तमिदं तात सलिले क्रीडितं त्वया । उत्कण्ठिता ते मातेयं प्रविश क्षिप्रमाश्रमम् ।।2.64.8।।
Meaning
यद्व्यलीकं कृतं पुत्र मात्रा ते यदि वा मया । न तन्मनसि कर्तव्यं त्वया तात तपस्विना ।।2.64.9।।
Meaning
त्वं गतिस्त्वगतीनां च चक्षुस्त्वं हीनचक्षुषाम् । समासक्तास्त्वयि प्राणाः किं त्वं नो नाभिभाषसे ।।2.64.10।।
Meaning