Sarga 46: The Citizens Beguiled
पौरमोहनम्
pauramohanam — word-by-word gloss for all 34 shlokas.
Jump to a shloka · 34 in this sarga
ततस्तु तमसातीरं रम्यमाश्रित्य राघवः । सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत् ।।2.46.1।।
Meaning
इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम् । वनवासस्य भद्रं ते स नोत्कण्ठितुमर्हसि ।।2.46.2।।
Meaning
पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः । यथानिलयमायद्भिर्निलीनानि मृगद्विजैः ।।2.46.3।।
Meaning
अद्यायोध्या तु नगरी राजधानी पितुर्मम । सस्त्रीपुंसागतानस्मान्शोचिष्यति न संशयः ।।2.46.4।।
Meaning
अनुरक्ता हि मनुजाः राजानं बहुभिर्गुणैः । त्वां च मां च नरव्याघ्र शत्रघ्नभरतौ तथा ।।2.46.5।।
Meaning
पितरं चानुशोचामि मातरं च यशस्विनीम् । अपि वाऽन्धौ भवेतां तु रुदन्तौ तावभीक्ष्णशः ।।2.46.6।।
Meaning
भरतः खलु धर्मात्मा पितरं मातरं च मे । धर्मार्थकामसहितैः वाक्यैराश्वासयिष्यति ।।2.46.7।।
Meaning
भरतस्यानृशंसत्वं विचिन्त्याहं पुनः पुनः । नानुशोचामि पितरं मातरं चापि लक्ष्मण ।।2.46.8।।
Meaning
त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम् । अन्वेष्टव्या हि वैदेह्या रक्षणार्थे सहायता ।।2.46.9।।
Meaning
अद्भिरेव तु सौमित्रे वत्स्याम्यद्य निशामिमाम् । एतद्धि रोचते मह्यं वन्येऽपि विविधे सति ।।2.46.10।।
Meaning