Sarga 6: The City Rejoices
पौरोत्सेकः
paurotsekaḥ — word-by-word gloss for all 28 shlokas.
Jump to a shloka · 28 in this sarga
गते पुरोहिते रामः स्नातो नियतमानसः। सह पत्न्या विशालाक्ष्या नारायणमुपागमत् ।।2.6.1।।
Meaning
प्रगृह्य शिरसा पात्रीं हविषो विधिवत्तदा। महते दैवतायाज्यं जुहाव ज्वलितेऽनले ।।2.6.2।।
Meaning
शेषं च हविषस्तस्य प्राश्याशास्यात्मनः प्रियम्। ध्यायन्नारायणं देवं स्वास्तीर्णे कुशसंस्तरे ।।2.6.3।।
Meaning
वाग्यतः सह वैदेह्या भूत्वा नियतमानसः। श्रीमत्यायतने विष्णोः शिश्ये नरवरात्मजः ।।2.6.4।।
Meaning
एकयामावशिष्टायां रात्र्यां प्रतिविबुध्य सः। अलङ्कारविधिं कृत्स्नं कारयामास वेश्मनः ।।2.6.5।।
Meaning
तत्र शृण्वन्सुखा वाचः सूतमागधवन्दिनाम्। पूर्वां सन्ध्यामुपासीनो जजाप यतमानसः ।।2.6.6।।
Meaning
तुष्टाव प्रणतश्चैव शिरसा मधुसूदनम्। विमलक्षौमसंवीतो वाचयामास च द्विजान् ।।2.6.7।।
Meaning
तेषां पुण्याहघोषोऽथ गम्भीरमधुरस्तदा। अयोध्यां पूरयामास तूर्यघोषानुनादितः ।।2.6.8।।
Meaning
कृतोपवासं तु तदा वैदेह्या सह राघवम्। अयोध्यानिलयः श्रुत्वा सर्वः प्रमुदितो जनः ।।2.6.9।।
Meaning
ततः पौरजनः सर्वः श्रुत्वा रामाभिषेचनम्। प्रभातां रजनीं दृष्ट्वा चक्रे शोभयितुं पुरीम् ।।2.6.10।।
Meaning