Sarga 4: A Mother's Blessing

मात्राशीःपरिग्रहः

mātrāśīḥparigrahaḥ — word-by-word gloss for all 45 shlokas.

Page 1 of 545 shlokas in this sarga (verified max-across-sources)
Shloka 4.1Word-by-word available

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः। मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम् ।।2.4.1।।

Meaning

Shloka 4.2Word-by-word available

श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः। रामो राजीवताम्राक्षो यौवराज्य इति प्रभुः ।।2.4.2।।

Meaning

Shloka 4.3Word-by-word available

अथान्तर्गृहमाविश्य राजा दशरथस्तदा। सूतमाज्ञापयामास रामं पुनरिहानय ।।2.4.3।।

Meaning

Shloka 4.4Word-by-word available

प्रतिगृह्य स तद्वाक्यं सूतः पुनरुपाययौ। रामस्य भवनं शीघ्रं राममानयितुं पुनः ।।2.4.4।।

Meaning

Shloka 4.5Word-by-word available

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः। श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत् ।।2.4.5।।

Meaning

Shloka 4.6Word-by-word available

प्रवेश्य चैनं त्वरितं रामो वचनमब्रवीत्। यदागमनकृत्यं ते भूयस्तद्ब्रूह्यशेषतः ।।2.4.6।।

Meaning

Shloka 4.7Word-by-word available

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति। श्रुत्वा प्रमाणमत्र त्वं गमनायेतराय वा ।।2.4.7।।

Meaning

Shloka 4.8Word-by-word available

इति सूतवचः श्रुत्वा रामोऽथ त्वरयान्वितः। प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम् ।।2.4.8।।

Meaning

Shloka 4.9Word-by-word available

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः। प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम् ।।2.4.9।।

Meaning

Shloka 4.10Word-by-word available

प्रविशन्नेव च श्रीमान्राघवो भवनं पितुः। ददर्श पितरं दूरात्प्रणिपत्य कृताञ्जलिः ।।2.4.10।।

Meaning