Sarga 88: Looking at the Bed
शय्यानुवीक्षणम्
śayyānuvīkṣaṇam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
तच्छ्रुत्वा निपुणं सर्वं भरतः सह मन्त्रिभिः । इङ्गुदीमूलमागम्य रामशय्यामवेक्ष्य ताम् ।।2.88.1।।
Meaning
अब्रवीज्जननीः सर्वा इह तेन महात्मना । शर्वरी शयिता भूमौ इदमस्य विमर्दितम् ।।2.88.2।।
Meaning
महाभागकुलीनेन महाभागेन धीमता । जातो दशरथेनोर्व्यां न रामः स्वप्तुमर्हति ।।2.88.3।।
Meaning
अजिनोत्तरसंस्तीर्णे वरास्तरणसञ्चये । शयित्वा पुरुषव्याघ्रः कथं शेते महीतले ।।2.88.4।।
Meaning
प्रासादाग्रविमानेषु वलभीषु च सर्वदा । हैमराजतभौमेषु वरास्तरणशालिषु ।।2.88.5।।
Meaning
पुष्पसञ्चयचित्रेषु चन्दनागरुगन्धिषु । पाण्डराभ्रप्रकाशेषु शुकसङ्घरुतेषु च ।।2.88.6।।
Meaning
प्रासादवरवर्येषु शीतवत्सु सुगन्धिषु । उषित्वा मेरुकल्पेषु कृतकाञ्चनभित्तिषु ।।2.88.7।।
Meaning
गीतवादित्रनिर्घोषैर्वराभरणनिस्स्वनैः । मृदङ्गवरशब्दैश्च सततं प्रतिबोधितः ।।2.88.8।।
Meaning
वन्दिभिर्वन्दितः काले बहुभिः सूतमागधैः । गाथाभिरनुरूपाभिः स्तुतिभिश्च परन्तपः ।।2.88.9।।
Meaning
अश्रद्धेयमिदं लोके न सत्यं प्रतिभाति मा । मुह्यते खलु मे भावः स्वप्नोऽयमिति मे मतिः ।।2.88.10।।
Meaning