Sarga 81: The Assembly Hall

सभास्थानम्

sabhāsthānam — word-by-word gloss for all 16 shlokas.

Jump to a shloka · 16 in this sarga

Page 1 of 216 shlokas in this sarga (verified max-across-sources)
Shloka 81.1Word-by-word available

ततो नान्दीमुखीं रात्रिं भरतं सूतमागधाः । तुष्टुवुर्वाग्विशेषज्ञाः स्तवैः मङ्गलसंहितैः ।।2.81.1।।

Meaning

Shloka 81.2Word-by-word available

सुवर्णकोणाभिहतः प्राणदद्यामदुन्दुभिः । दध्मुः शङ्खांश्च शतशो नादांश्चोच्चावचस्वरान् ।।2.81.2।।

Meaning

Shloka 81.3Word-by-word available

स तूर्यघोषः सुमहान् दिवमापूरयन्निव । भरतं शोकसन्तप्तं भूयः शोकैररन्ध्रयत् ।।2.81.3।।

Meaning

Shloka 81.4Word-by-word available

ततः प्रबुद्धो भरतस्तं घोषं संनिवर्त्य च । नाहं राजेति चाप्युक्त्वा शत्रुघ्नमिदमब्रवीत् ।।2.81.4।।

Meaning

Shloka 81.5Word-by-word available

पश्य शत्रुघ्न कैकेय्या लोकस्यापकृतं महत् । विसृज्य मयि दुःखानि राजा दशरथो गतः ।।2.81.5।।

Meaning

Shloka 81.6Word-by-word available

तस्यैषा धर्मराजस्य धर्ममूला महात्मनः । परिभ्रमति राजश्रीः नौरिवाकर्णिका जले ।।2.81.6।।

Meaning

Shloka 81.7Word-by-word available

यो हि नः सुमहान्नाथः सोऽपि प्रव्राजितो वनम् । अनया धर्ममुत्सृज्य मात्रा मे राघवः स्वयम् ।।2.81.7।।

Meaning

Shloka 81.8Word-by-word available

इत्येवं भरतं प्रेक्ष्य विलपन्तं विचेतनम् । कृपणं रुरुदुः सर्वाः सस्वरं योषितस्तदा ।।2.81.8।।

Meaning

Shloka 81.9Word-by-word available

तथा तस्मिन्विलपति वसिष्ठो राजधर्मवित् । सभामिक्ष्वाकुनाथस्य प्रविवेश महायशाः ।।2.81.9।।

Meaning

Shloka 81.10Word-by-word available

शातकुम्भमयीं रम्यां मणिरत्नसमाकुलाम् । सुधर्मामिव धर्मात्मा सगणः प्रत्यपद्यत ।।2.81.10।।

Meaning