Sarga 3: Counsel to the Son
पुत्रानुशासनम्
putrānuśāsanam — word-by-word gloss for all 49 shlokas.
Jump to a shloka · 49 in this sarga
तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः। प्रतिगृह्याब्रवीद्राजा तेभ्यः प्रियहितं वचः ।।2.3.1।।
Meaning
अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम। यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ ।।2.3.2।।
Meaning
इति प्रत्यर्च्य तान्राजा ब्राह्मणानिदमब्रवीत्। वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम् ।।2.3.3।।
Meaning
चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः। यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम् ।।2.3.4।।
Meaning
राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्। शनैस्तस्मिन्प्रशान्ते च जनघोषे जनाधिपः ।।2.3.5।।
Meaning
वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्। अभिषेकाय रामस्य यत्कर्म सपरिच्छदम् ।।2.3.6।।
Meaning
तदद्य भगवान्सर्वमाज्ञापयितुमर्हसि। तच्छ्रुत्वा भूमिपालस्य वसिष्ठो द्विजसत्तमः ।।2.3.7।।
Meaning
आदिदेशाग्रतो राज्ञः स्थितान्युक्तान्कृताञ्जलीन्। सुवर्णादीनि रत्नानि बलीन्सर्वौषधीरपि ।।2.3.8।।
Meaning
शुक्लमाल्यांश्च लाजांश्च पृथक्च मधुसर्पिषी। अहतानि च वासांसि रथं सर्वायुधान्यपि ।।2.3.9।।
Meaning
चतुरङ्गबलं चैव गजं च शुभलक्षणम्। चामरव्यजने श्वेते ध्वजं छत्रं च पाण्डुरम् ।।2.3.10।।
Meaning