Sarga 48: The Lament of the City's Women

पौराङ्गनाविलापः

paurāṅganāvilāpaḥ — word-by-word gloss for all 37 shlokas.

Page 1 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 48.1Word-by-word available

तेषामेवं विषण्णानां पीडितानामतीव च । बाष्पविप्लुतनेत्राणां सशोकानां मुमूर्षया ।।2.48.1।।

Meaning

Shloka 48.2Word-by-word available

अनुगम्य निवृत्तानां रामं नगरवासिनाम् । उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् ।।2.48.2।।

Meaning

Shloka 48.3Word-by-word available

स्वं स्वं निलयमागम्य पुत्रदारैः समावृताः । अश्रूणि मुमुचुः सर्वे बाष्पेण पिहिताननाः ।।2.48.3।।

Meaning

Shloka 48.4Word-by-word available

न चाहृष्यन्न चामोदन्वणिजो न प्रसारयन् । न चाशोभन्त पण्यानि नापचन्गृहमेधिनः ।।2.48.4।।

Meaning

Shloka 48.5Word-by-word available

नष्टं दृष्ट्वा नाभ्यनन्दन्विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ।।2.48.5।।

Meaning

Shloka 48.6Word-by-word available

गृहे गृहे रुदन्त्यश्च भर्तारं गृहमागतम् । व्यगर्हयन्त दुःखार्ताः वाग्भिस्तोत्रैरिव द्विपान् ।।2.48.6।।

Meaning

Shloka 48.7Word-by-word available

किं नु तेषां गृहैः कार्यं किं दारैः किं धनेन वा । पुत्रैर्वा किं सुखैर्वाऽपि ये न पश्यन्ति राघवम् ।।2.48.7।।

Meaning

Shloka 48.8Word-by-word available

एकः सत्पुरुषो लोके लक्ष्मणः सह सीतया । योऽनुगच्छति काकुत्स्थं रामं परिचरन्वने ।।2.48.8।।

Meaning

Shloka 48.9Word-by-word available

आपगाः कृतपुण्यास्ताः पद्मिन्यश्च सरांसि च । येषु स्नास्यति काकुत्स्थो विगाह्य सलिलं शुचि ।।2.48.9।।

Meaning

Shloka 48.10Word-by-word available

शोभयिष्यन्ति काकुत्स्थमटव्यो रम्यकाननाः । आपगाश्च महानूपाः सानुमन्तश्च पर्वताः ।।2.48.10।।

Meaning