Sarga 54: Arrival at Bharadvāja's Hermitage

भरद्वाजाश्रमाभिगमनम्

bharadvājāśramābhigamanam — word-by-word gloss for all 43 shlokas.

Page 1 of 543 shlokas in this sarga (verified max-across-sources)
Shloka 54.1Word-by-word available

ते तु तस्मिन् महावृक्षौषित्वा रजनीं शिवाम् । विमलेऽभ्युदिते सूर्ये तस्माद्देशात् प्रतस्थिरे ।।2.54.1।।

Meaning

Shloka 54.2Word-by-word available

यत्र भागीरथीं गङ्गां यमुनाऽभिप्रवर्तते । जग्मुस्तं देशमुद्दिश्य विगाह्य सुमहद्वनम् ।।2.54.2।।

Meaning

Shloka 54.3Word-by-word available

ते भूमिभागान् विविधान् देशांश्चापि मनोरमान् । अदृष्टपूर्वान् पश्यन्तस्तत्र तत्र यशस्विनः ।।2.54.3।।

Meaning

Shloka 54.4Word-by-word available

यथाक्षेमेण गच्छन् सः पश्यंश्च विविधान् द्रुमान् । निवृत्तमात्रे दिवसे रामः सौमित्रिमब्रवीत् ।।2.54.4।।

Meaning

Shloka 54.5Word-by-word available

प्रयागमभितः पश्य सौमित्रे धूममुन्नतम् । अग्नेर्भगवतः केतुं मन्ये सन्निहितः मुनिः ।।2.54.5।।

Meaning

Shloka 54.6Word-by-word available

नूनं प्राप्तास्म सम्भेदं गङ्गा यमुनयोर्वयम् । तथा हि श्रूयते शब्दः वारिणो वारिघट्टितः ।।2.54.6।।

Meaning

Shloka 54.7Word-by-word available

दारूणि परिभिन्नानि वनजैः उपजीविभिः । भरद्वाजाश्रमे चैते दृश्यन्ते विविधा द्रुमाः ।।2.54.7।।

Meaning

Shloka 54.8Word-by-word available

धन्विनौ तौ सुखं गत्वा लम्बमाने दिवाकरे । गङ्गायमुनयोः सन्धौ प्रापतुर्निलयं मुनेः ।।2.54.8।।

Meaning

Shloka 54.9Word-by-word available

रामस्त्वाश्रममासाद्य त्रासयन् मृगपक्षिणः । गत्वा मुहूर्तमध्वानं भरद्वाजमुपागमत् ।।2.54.9।।

Meaning

Shloka 54.10Word-by-word available

ततस्त्वाश्रममासाद्य मुनेर्दर्शनकाङ्क्षिणौ । सीतयाऽनुगतौ वीरौ दूरादेवावतस्थतुः ।।2.54.10।।

Meaning