Sarga 54: Arrival at Bharadvāja's Hermitage
भरद्वाजाश्रमाभिगमनम्
bharadvājāśramābhigamanam — word-by-word gloss for all 43 shlokas.
Jump to a shloka · 43 in this sarga
स प्रविश्य महात्मानमृषिं शिष्यगणैर्वृतम् । संशितव्रतमेकाग्रं तपसा लब्धचक्षुषम् ।।2.54.11।।
Meaning
हुताग्निहोत्रं दृष्ट्वैव महाभागं कृताञ्जलिः । रामः सौमित्रिणा सार्धं सीतया चाभ्यवादयत् ।।2.54.12।।
Meaning
न्यवेदयत चात्मानं तस्मै लक्ष्मणपूर्वजः । पुत्रौ दशरथस्यावां भगवन् रामलक्ष्मणौ ।।2.54.13।।
Meaning
भार्या ममेयं वैदेही कल्याणी जनकात्मजा । मां चानुयाता विजनं तपोवनमनिन्दिता ।।2.54.14।।
Meaning
पित्रा प्रव्राज्यमानं मां सौमित्रिरनुजः प्रियः । अयमन्वगमद्भ्राता वनमेव दृढव्रतः ।।2.54.15।।
Meaning
पित्रा नियुक्ता भगवन् प्रवेक्ष्यामस्तपोवनम् । धर्ममेव चरिष्यामस्तत्र मूलफलाशनाः ।।2.54.16।।
Meaning
तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः । उपानयत धर्मात्मा गामर्घ्यमुदकं ततः ।।2.54.17।।
Meaning
नानाविधानन्नरसान् वन्यमूलफलाश्रयान् । तेभ्यो ददौ तप्ततपाः वासं चैवाभ्यकल्पयत् ।।2.54.18।।
Meaning
मृगपक्षिभिरासीनः मुनिभिश्च समन्ततः । राममागतमभ्यर्च्य स्वागतेनाह तं मुनिः ।।2.54.19।।
Meaning
प्रतिगृह्य च तामर्चामुपविष्टं स राघवम् । भरद्वाजोऽब्रवीद्वाक्यं धर्मयुक्तमिदं तदा ।।2.54.20।।
Meaning