Sarga 18: The Exile Decreed
वनवासनिदेशः
vanavāsanideśaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
स ददर्शासने रामो निषण्णं पितरं शुभे। कैकेयीसहितं दीनं मुखेन परिशुष्यता ।।2.18.1।।
Meaning
स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्। ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ।।2.18.2।।
Meaning
रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः। शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ।।2.18.3।।
Meaning
तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्। रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम् ।।2.18.4।।
Meaning
इन्द्रियैरप्रहृष्टैस्तं शोकसन्तापकर्शितम्। निःश्वसन्तं महाराजं व्यथिताकुलचेतसम् ।।2.18.5।।
Meaning
ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्। उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा ।।2.18.6।।
Meaning
अचिन्त्यकल्पं हि पितुस्तं शोकमुपधारयन्। बभूव संरब्धतरः समुद्र इव पर्वणि ।।2.18.7।।
Meaning
चिन्तयामास च तदा रामः पितृहिते रतः। किं स्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति ।।2.18.8।।
Meaning
अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति। तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते ।।2.18.9।।
Meaning
स दीन इव शोकार्तो विषण्णवदनद्युतिः। कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ।।2.18.10।।
Meaning