Sarga 18: The Exile Decreed
वनवासनिदेशः
vanavāsanideśaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
कच्चिन्मया नापराद्धमज्ञानाद्येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ।।2.18.11।।
Meaning
अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विवर्णवदनो दीनो न हि मामभिभाषते ।।2.18.12।।
Meaning
शारीरो मानसो वाऽपि कच्चिदेनं न बाधते। सन्तापो वाऽभितापो वा दुर्लभं हि सदा सुखम् ।।2.18.13।।
Meaning
कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने। शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम् ।।2.18.14।।
Meaning
अतोषयन्महाराजमकुर्वन्वा पितुर्वचः। मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ।।2.18.15।।
Meaning
यतोमूलं नरः पश्येत्प्रादुर्भावमिहात्मनः। कथं तस्मिन्न वर्तेत प्रत्यक्षे सति दैवते ।।2.18.16।।
Meaning
कच्चित्ते परुषं किञ्चिदभिमानात्पिता मम। उक्तो भवत्या कोपेन यत्रास्य लुलितं मनः ।।2.18.17।।
Meaning
एतदाचक्ष्व मे देवि तत्त्वेन परिपृछतः। किं निमित्तमपूर्वोऽयं विकारो मनुजाधिपे ।।2.18.18।।
Meaning
एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः ।।2.18.19।।
Meaning
न राजा कुपितो राम व्यसनं नास्य किञ्चन। किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ।।2.18.20।।
Meaning