Sarga 18: The Exile Decreed
वनवासनिदेशः
vanavāsanideśaḥ — word-by-word gloss for all 41 shlokas.
Jump to a shloka · 41 in this sarga
प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते। तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम ।।2.18.21।।
Meaning
एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च। स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ।।2.18.22।।
Meaning
अतिसृज्य ददानीति वरं मम विशाम्पतिः। स निरर्थं गतजले सेतुं बन्धितुमिच्छति ।।2.18.23।।
Meaning
धर्ममूलमिदं राम विदितं च सतामपि। तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ।।2.18.24।।
Meaning
यदि तद्वक्ष्यते राजा शुभं वा यदि वाऽशुभम्। करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ।।2.18.25।।
Meaning
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते। ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ।।2.18.26।।
Meaning
एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्। उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ।।2.18.27।।
Meaning
अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद्राज्ञः पतेयमपि पावके ।।2.18.28।।
Meaning
भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे। नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ।।2.18.29।।
Meaning
तद्ब्रूहि वचनं देवि राज्ञो यदभिकाङ्क्षितम्। करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते ।।2.18.30।।
Meaning