Sarga 103: Meeting the Mothers

मातृदर्शनम्

mātṛdarśanam — word-by-word gloss for all 32 shlokas.

Page 1 of 432 shlokas in this sarga (verified max-across-sources)
Shloka 103.1Word-by-word available

वसिष्ठः पुरतः कृत्वा दारान् दशरथस्य च । अभिचक्राम तं देशं रामदर्शनतर्षितः ।।2.103.1।।

Meaning

Shloka 103.2Word-by-word available

राजपत्न्यश्च गच्छन्त्यो मन्दं मन्दाकिनीं प्रति । ददृशुस्तत्र तत्तीर्थं रामलक्ष्मणसेवितम् ।।2.103.2।।

Meaning

Shloka 103.3Word-by-word available

कौसल्या बाष्पपूर्णेन मुखेन परिशुष्यता । सुमित्रामब्रवीद्दीना याश्चान्या राजयोषितः ।।2.103.3।।

Meaning

Shloka 103.4Word-by-word available

इदं तेषामनाथानां क्लिष्टमक्लिष्टकर्मणाम् । वने प्राक्केवलं तीर्थं ये ते निर्विषयीकृताः ।।2.103.4।।

Meaning

Shloka 103.5Word-by-word available

इतः सुमित्रे पुत्रस्ते सदा जलमतन्द्रितः । स्वयं हरति सौमित्रिर्मम पुत्रस्य कारणात् ।।2.103.5।।

Meaning

Shloka 103.6Word-by-word available

जघन्यमपि ते पुत्रः कृतवान्न तु गर्हितः । भ्रातुर्यदर्थसहितं सर्वं तद्विहितं गुणैः ।।2.103.6।।

Meaning

Shloka 103.7Word-by-word available

अद्यायमपि ते पुत्रः क्लेशानामतथोचितः । नीचानर्थसमाचारं सज्जं कर्म प्रमुञ्चतु ।।2.103.7।।

Meaning

Shloka 103.8Word-by-word available

दक्षिणाग्रेषु दर्भेषु सा ददर्श महीतले । पितुरिङ्गुदिपिण्याकं न्यस्तमायतलोचना ।।2.103.8।।

Meaning

Shloka 103.9Word-by-word available

तं भूमौ पितुरार्तेन न्यस्तं रामेण वीक्ष्य सा । उवाच देवी कौसल्या सर्वा दशरथस्त्रियः ।।2.103.9।।

Meaning

Shloka 103.10Word-by-word available

इदमिक्ष्वाकुनाथस्य राघवस्य महात्मनः । राघवेण पितुर्दत्तं पश्यतैतद्यथाविधि ।।2.103.10।।

Meaning