Sarga 103: Meeting the Mothers
मातृदर्शनम्
mātṛdarśanam — word-by-word gloss for all 32 shlokas.
Jump to a shloka · 32 in this sarga
तस्य देवसमानस्य पार्थिवस्य महात्मनः । नैतदौपयिकं मन्ये भुक्तभोगस्य भोजनम् ।।2.103.11।।
Meaning
चतुरन्तां महीं भुक्त्वा महेन्द्रसदृशो विभुः । कथमिङ्गुदिपिण्याकं स भुङ्क्ते वसुधाधिपः ।।2.103.12।।
Meaning
अतो दुःखतरं लोके न किञ्चित् प्रतिभाति मा । यत्र रामः पितुर्दद्यादिङ्गुदीक्षोदमृद्धिमान् ।।2.103.13।।
Meaning
रामेणेङ्गुदिपिण्याकं पितुर्दत्तं समीक्ष्य मे । कथं दुःखेन हृदयं न स्फोटति सहस्रधा ।।2.103.14।।
Meaning
श्रुतिस्तु खल्वियं सत्या लौकिकी प्रतिभाति मा । यदन्नः पुरुषो भवति तदन्नास्तस्य देवताः ।।2.103.15।।
Meaning
एवमार्तां सपत्न्यस्ताः जग्मुराश्वास्य तां तदा । ददृशुश्चाश्रमे रामं स्वर्गच्युतमिवामरम् ।।2.103.16।।
Meaning
सर्वभोगैः परित्यक्तं रामं सम्प्रेक्ष्य मातरः । आर्ता मुमुचुरश्रूणि सस्वरं शोककर्शिताः ।।2.103.17।।
Meaning
तासां रामः समुत्थाय जग्राह चरणान् शुभान् । मातॄणां मनुजव्याघ्रः सर्वासां सत्यसङ्गरः ।।2.103.18।।
Meaning
ताः पाणिभिः सुखस्पर्शैर्मृद्वङ्गुलितलैः शुभैः । प्रममार्जू रजः पृष्ठाद्रामस्यायतलोचनाः ।।2.103.19।।
Meaning
सौमित्रिरपि ताः सर्वाः मातॄस्सम्प्रेक्ष्य दुःखितः । अभ्यवादयतासक्तं शनै रामादनन्तरम् ।।2.103.20।।
Meaning