Sarga 26: Sītā Asked to Stay
सीताप्रत्यवस्थापनम्
sītāpratyavasthāpanam — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्। कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ।।2.26.1।।
Meaning
विराजयन्राजसुतो राजमार्गं नरैर्वृतम्। हृदयान्याममन्थेव जनस्य गुणवत्तया ।।2.26.2।।
Meaning
वैदेही चापि तत्सर्वं न शुश्राव तपस्विनी। तदेव हृदि तस्याश्च यौवराज्याभिषेचनम् ।।2.26.3।।
Meaning
देवकार्यं स्वयं कृत्वा कृतज्ञा हृष्टचेतना। अभिज्ञा राजधर्मानां राजपुत्रं प्रतीक्षते ।।2.26.4।।
Meaning
प्रविवेशाथ रामस्तु स्व वेश्म सुविभूषितम्। प्रहृष्टजनसम्पूर्णं ह्रिया किञ्चिदवाङ्मुखः ।।2.26.5।।
Meaning
अथ सीता समुत्पत्य वेपमाना च तं पतिम्। अपश्यच्छोकसन्तप्तं चिन्ताव्याकुलितेन्द्रियम् ।।2.26.6।।
Meaning
तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्। तं शोकं राघवः सोढुं ततो विवृततां गतः ।।2.26.7।।
Meaning
विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्। आह दुःखाभिसन्तप्ता किमिदानीमिदं प्रभो ।।2.26.8।।
Meaning
अद्य बार्हस्पतः श्रीमानुक्तः पुष्यो नु राघव। प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः ।।2.26.9।।
Meaning
न ते शतशलाकेन जलफेननिभेन च। आवृतं वदनं वल्गु छत्रेणाभिविराजते ।।2.26.10।।
Meaning