Sarga 62: Kausalyā Appeased
कौसल्याप्रसादनम्
kausalyāprasādanam — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
एवं तु क्रुद्धया राजा राममात्रा सशोकया । श्रावितः परुषं वाक्यं चिन्तयामास दुःखितः ।।2.62.1।।
Meaning
चिन्तयित्वा स च नृपो मुमोह व्याकुलेन्द्रियः । अथ दीर्घेण कालेन सञ्ज्ञामाप परन्तपः ।।2.62.2।।
Meaning
स सञ्ज्ञामुपलभ्यैव दीर्घमुष्णं च निश्श्वसन् । कौसल्यां पार्श्वतो दृष्ट्वा पुनश्चिन्तामुपागमत् ।।2.62.3।।
Meaning
तस्य चिन्तयमानस्य प्रत्यभात् कर्म दुष्कृतम् । यदनेन कृतं पूर्वमज्ञानाच्छब्दवेधिना ।।2.62.4।।
Meaning
अमनास्तेन शोकेन रामशोकेन च प्रभुः । द्वाभ्यामपि महाराजः शोकाभ्यामन्वतप्यत ।।2.62.5।।
Meaning
दह्यमानः सशोकाभ्यां कौसल्यामाह भूपतिः । वेपमानोऽञ्जलिं कृत्वा प्रसादर्थमवाङ्मुखः ।।2.62.6।।
Meaning
प्रसादये त्वां कौसल्ये रचितोऽयं मयाऽञ्जलिः । वत्सला चानृशंसा च त्वं हि नित्यं परेष्वपि ।।2.62.7।।
Meaning
भर्ता तु खलु नारीणां गुणवान्निर्गुणोऽपि वा । धर्मं विमृशमानानां प्रत्यक्षं देवि दैवतम् ।।2.62.8।।
Meaning
सा त्वं धर्मपरा नित्यं दृष्टलोकपरावर । नार्हसे विप्रियं वक्तुं दुःखिताऽपि सुदुःखितम् ।।2.62.9।।
Meaning
तद्वाक्यं करुणं राज्ञः श्रुत्वा दीनस्य भाषितम् । कौसल्या व्यसृजद्बाष्पं प्रणालीव नवोदकम् ।।2.62.10।।
Meaning