Sarga 16: Rāma Sets Out
रामप्रस्थानम्
rāmaprasthānam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
स तदन्तःपुरद्वारं समतीत्य जनाकुलम्। प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित् ।।2.16.1।।
Meaning
प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः। अप्रमादिभिरेकाग्रैः स्वनुरक्तैरधिष्ठिताम् ।।2.16.2।।
Meaning
तत्र काषायिणो वृद्धान्वेत्रपाणीन् स्वलङ्कृतान्। ददर्श विष्ठितान्द्वारिः त्र्यध्यक्षान्सुसमाहितान् ।।2.16.3।।
Meaning
ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः। सहसोत्पतिताः सर्वे स्वासनेभ्यः ससम्भ्रमाः ।।2.16.4।।
Meaning
तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः। क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति ।।2.16.5।।
Meaning
ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः। सहभार्याय रामाय क्षिप्रमेअवाचचक्षिरे ।।2.16.6।।
Meaning
प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः। तत्रैवानाययामास राघवप्रियकाम्यया ।।2.16.7।।
Meaning
तं वैश्रवणसङ्काशमुपविष्टं स्वलङ्कृतम्। ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे ।।2.16.8।।
Meaning
वराहरुधिराभेण शुचिना च सुगन्धिना। अनुलिप्तं परार्ध्येन चन्दनेन परन्तपम् ।।2.16.9।।
Meaning
स्थितया पार्श्वतश्चापि वालव्यजनहस्तया। उपेतं सीतया भूतश्चित्रया शशिनं यथा ।।2.16.10।।
Meaning