Sarga 16: Rāma Sets Out
रामप्रस्थानम्
rāmaprasthānam — word-by-word gloss for all 48 shlokas.
Jump to a shloka · 48 in this sarga
तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा। ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ।।2.16.11।।
Meaning
प्राञ्जलिस्तु सुखं पृष्ट्वा विहारशयनासने। राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ।।2.16.12।।
Meaning
कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति। महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ।।2.16.13।।
Meaning
एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः। ततः सम्मानयामास सीतामिदमुवाच ह ।।2.16.14।।
Meaning
देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ।।2.16.15।।
Meaning
लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा। सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ।।2.16.16।।
Meaning
सा प्रहृष्टा महाराजं हितकामानुवर्तिनी। जननी चार्थकामा मे केकयाधिपतेः सुता ।।2.16.17।।
Meaning
दिष्ट्या खलु महाराजो महिष्या प्रियया सह। सुमन्त्रं प्राहिणोद्दूतमर्थकामकरं मम ।।2.16.18।।
Meaning
यादृशी परिषत्तत्र तादृशो दूत आगतः। ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ।।2.16.19।।
Meaning
अहं शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्। सह त्वं परिवारेण सुखमास्व रामस्व च ।।2.16.20।।
Meaning