Sarga 49: The Countryfolk's Outcry
जानपदाक्रोशः
jānapadākrośaḥ — word-by-word gloss for all 18 shlokas.
Jump to a shloka · 18 in this sarga
रामोऽपि रात्रिशेषेण तेनैव महदन्तरम् । जगाम पुरुषव्याघ्रः पितुराज्ञामनुस्मरन् ।।2.49.1।।
Meaning
तथैव गच्छतस्तस्य व्यपायाद्रजनी शिवा । उपास्य स शिवां सन्ध्यां विषयान्तं व्यगाहत ।।2.49.2।।
Meaning
ग्रामान्विकृष्टसीमान्तान्पुष्पितानि वनानि च । पश्यन्नतिययौ शीघ्रं शनैरिव हयोत्तमैः । शृण्वन्वाचो मनुष्याणां ग्रामसंवासवासिनाम् ।।2.49.3।।
Meaning
राजानं धिग्दशरथं कामस्य वशमागतम् ।।2.49.4।।
Meaning
हा नृशंसाऽद्य कैकेयी पापा पापानुबन्धिनी । तीक्ष्णा सम्भिन्नमर्यादा तीक्ष्णकर्मणि वर्तते ।।2.49.5।।
Meaning
या पुत्रमीदृशं राज्ञः प्रवासयति धार्मिकम् । वनवासे महाप्राज्ञं सानुक्रोशं जितेन्द्रियम् ।।2.49.6।।
Meaning
कथं नाम महाभागा सीता जनकनन्दिनी । सदा सुखेष्वभिरता दुःखान्यनुभविष्यति ।।2.49.7।।
Meaning
अहो दशरथो राजा निस्स्नेहः स्वसुतं प्रियम् । प्रजानामनघं रामं परित्यक्तुमिहेच्छति ।।2.49.8।।
Meaning
एता वाचो मनुष्याणां ग्रामसंवासवासिनाम् । शृण्वन्नतिययौ वीरः कोसलान्कोसलेश्वरः ।।2.49.9।।
Meaning
ततः वेदश्रुतिं नाम शिववारिवहां नदीम् । उत्तीर्याभिमुखः प्रायादगस्त्याध्युषितां दिशम् ।।2.49.10।।
Meaning