Sarga 98: The Search for Rāma

रामान्वेषणम्

rāmānveṣaṇam — word-by-word gloss for all 18 shlokas.

Jump to a shloka · 18 in this sarga

Page 1 of 218 shlokas in this sarga (verified max-across-sources)
Shloka 98.1Word-by-word available

निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः । अभिगन्तुं स काकुत्स्थमियेष गुरुवर्तकम् ।।2.98.1।।

Meaning

Shloka 98.2Word-by-word available

निविष्टमात्रे सैन्ये तु यथोद्देशं विनीतवत् । भरतो भ्रातरं वाक्यं शत्रुघ्नमिदमब्रवीत् ।।2.98.2।।

Meaning

Shloka 98.3Word-by-word available

क्षिप्रं वनमिदं सौम्य नरसङ्घैः समन्ततः । लुब्धैश्च सहितैरेभिस्त्वमन्वेषितुमर्हसि ।।2.98.3।।

Meaning

Shloka 98.4Word-by-word available

गुहो ज्ञातिसहस्रेण शरचापासिधारिणा । समन्वेषतु काकुत्स्थमस्मिन् परिवृतः स्वयम् ।।2.98.4।।

Meaning

Shloka 98.5Word-by-word available

अमात्यैः सह पौरैश्च गुरुभिश्च द्विजातिभिः । वनं सर्वं चरिष्यामि पद्भ्यां परिवृतः स्वयम् ।।2.98.5।।

Meaning

Shloka 98.6Word-by-word available

यावन्न रामं द्रक्ष्यामि लक्ष्मणं वा महाबलम् । वैदेहीं वा महाभागां न मे शान्तिर्भविष्यति ।।2.98.6।।

Meaning

Shloka 98.7Word-by-word available

यावन्न चन्द्रसङ्काशं द्रक्ष्यामि शुभमाननम् । भ्रातुः पद्मपलाशाक्षं न मे शान्तिर्भविष्यति ।।2.98.7।।

Meaning

Shloka 98.8Word-by-word available

यावन्न चरणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ।।2.98.8।।

Meaning

Shloka 98.9Word-by-word available

यावन्न राज्ये राज्यार्हः पितृपैतामहे स्थितः । अभिषेकजलक्लिन्नो न मे शान्तिर्भविष्यति ।।2.98.9।।

Meaning

Shloka 98.10Word-by-word available

सिद्धार्थः खलु सौमित्रिर्यश्चन्द्रविमलोपमम् । मुखं पश्यति रामस्य राजीवाक्षं महाद्युति ।।2.98.10।।

Meaning