Sarga 98: The Search for Rāma
रामान्वेषणम्
rāmānveṣaṇam — word-by-word gloss for all 18 shlokas.
Jump to a shloka · 18 in this sarga
कृतकृत्या महाभागा वैदेही जनकात्मजा । भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति ।।2.98.11।।
Meaning
सुभगश्चित्रकूटोऽसौ गिरिराजोपमो गिरिः । यस्मिन्वसति काकुत्स्थः कुबेर इव नन्दने ।।2.98.12।।
Meaning
कृतकार्यमिदं दुर्गं वनं व्यालनिषेवितम् । यदध्यास्ते महातेजाः रामः शस्त्रभृतां वरः ।।2.98.13।।
Meaning
एवमुक्त्वा महातेजाः भरतः पुरुषर्षभः । पद्भ्यामेव महाबाहुः प्रविवेश महद्वनम् ।।2.98.14।।
Meaning
स तानि द्रुमजालानि जातानि गिरिसानुषु । पुष्पिताग्राणि मध्येन जगाम वदतां वरः ।।2.98.15।।
Meaning
स गिरिश्चित्रकूटस्य सालमासाद्य पुष्पितम् । रामाश्रमगतस्याग्नेः ददर्श ध्वजमुच्छ्रितम् ।।2.98.16।।
Meaning
तं दृष्ट्वा भरतः श्रीमान् मुमोह सहबान्धवः । अत्र राम इति ज्ञात्वा गतः पारमिवाम्भसः ।।2.98.17।।
Meaning
स चित्रकूटे तु गिरौ निशम्य रामाश्रमं पुण्यजनोपपन्नम् । गुहेन सार्धं त्वरितो जगाम पुनर्निवेश्यैव चमूं महात्मा ।।2.98.18।।
Meaning