Sarga 70: Bharata Sets Out
भरतप्रस्थानम्
bharataprasthānam — word-by-word gloss for all 30 shlokas.
Jump to a shloka · 30 in this sarga
भरते ब्रुवति स्वप्नं दूतास्ते क्लान्तवाहनाः । प्रविश्यासह्यपरिखं रम्यं राजगृहं पुरम् ।।2.70.1।।
Meaning
समागम्य तु राज्ञा च राजपुत्रेण चार्चिताः । राज्ञः पादौ गृहीत्वा तु तमूचुर्भरतं वचः ।।2.70.2।।
Meaning
पुरोहितस्त्वां कुशलं प्राह सर्वे च मन्त्रिणः । त्वरमाणश्च निर्याहि कृत्यमात्ययिकं त्वया ।।2.70.3।।
Meaning
इमानि च महार्हाणि वस्त्राण्याभरणानि च । प्रतिगृह्य विशालाक्ष मातुलस्य च दापय ।।2.70.4।।
Meaning
अत्र विंशतिकोट्यस्तु नृपतेर्मातुलस्य ते । दशकोट्यस्तु सम्पूर्णास्तथैव च नृपात्मज ।।2.70.5।।
Meaning
प्रतिगृह्य च तत्सर्वं स्वनुरक्तः सुहृज्जने । दूतानुवाच भरतः कामैः सम्प्रतिपूज्य तान् ।।2.70.6।।
Meaning
कच्चित् सुकुशली राजा पिता दशरथो मम । कच्चिच्चारोगता रामे लक्ष्मणे च महात्मनि ।।2.70.7।।
Meaning
आर्या च धर्मनिरता धर्मज्ञा धर्मदर्शिनी । अरोगा चापि कौसल्या माता रामस्य धीमतः ।।2.70.8।।
Meaning
कच्चित् सुमित्रा धर्मज्ञा जननी लक्ष्मणस्य या । शत्रुघ्नस्य च वीरस्य साऽरोगा चापि मध्यमा ।।2.70.9।।
Meaning
आत्मकामा सदा चण्डी क्रोधना प्राज्ञमानिनी । अरोगा चापि मे माता कैकेयी किमुवाच ह ।।2.70.10।।
Meaning