Sarga 102: Offering of Water

निवापदानम्

nivāpadānam — word-by-word gloss for all 49 shlokas.

Page 1 of 549 shlokas in this sarga (verified max-across-sources)
Shloka 102.1Word-by-word available

तां श्रुत्वा करुणां वाचं पितुर्मरणसंहिताम् । राघवो भरतेनोक्तां बभूव गतचेतनः ।।2.102.1।।

Meaning

Shloka 102.2Word-by-word available

तं तु वज्रमिवोत्सृष्टमाहवे दानवारिणा । वाग्वज्रं भरतेनोक्तममनोज्ञं परन्तपः ।।2.102.2।।

Meaning

Shloka 102.3Word-by-word available

प्रगृह्य बाहू रामो वै पुष्पिताग्रो यथा द्रुमः । वने परशुना कृत्तस्तथा भुवि पपात ह ।।2.102.3।।

Meaning

Shloka 102.4Word-by-word available

तथा निपतितं रामं जगत्यां जगतीपतिम् । कूलघातपरिश्रान्तं प्रसुप्तमिव कुञ्जरम् ।।2.102.4।।

Meaning

Shloka 102.5Word-by-word available

भ्रातरस्ते महेष्वासं सर्वतः शोककर्शितम् । रुदन्तः सह वैदेह्या सिषिचुः सलिलेन वै ।।2.102.5।।

Meaning

Shloka 102.6Word-by-word available

स तु सञ्ज्ञां पुनर्लब्ध्वा नेत्राभ्यामास्रमुत्सृजन् । उपाक्रामत काकुत्स्थः कृपणं बहुभाषितुम् ।।2.102.6।।

Meaning

Shloka 102.7Word-by-word available

स रामः स्वर्गतं श्रुत्वा पितरं पृथिवीपतिम् । उवाच भरतं वाक्यं धर्मात्मा धर्मसंहितम् ।।2.102.7।।

Meaning

Shloka 102.8Word-by-word available

किं करिष्याम्ययोध्यायां ताते दिष्टां गतिं गते । कस्तां राजवराद्धीनामयोध्यां पालयिष्यति ।।2.102.8।।

Meaning

Shloka 102.9Word-by-word available

किं नु तस्य मया कार्यं दुर्जातेन महात्मनः । यो मृतो मम शोकेन मया चापि न संस्कृतः ।।2.102.9।।

Meaning

Shloka 102.10Word-by-word available

अहो भरत सिद्धार्थो येन राजा त्वयानघ । शत्रुघ्नेन च सर्वेषु प्रेतकृत्येषु सत्कृतः ।।2.102.10।।

Meaning