Sarga 69: Bharata's Ill Dream
भरतदुःस्वप्नः
bharataduḥsvapnaḥ — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
यामेव रात्रिं ते दूताः प्रविशन्ति स्म तां पुरीम् । भरतेनापि तां रात्रिं स्वप्नो दृष्टोऽयमप्रियः ।।2.69.1।।
Meaning
व्युष्टामेव तु तां रात्रिं दृष्ट्वा तं स्वप्नमप्रियम् । पुत्रः राजाधिराजस्य सुभृशं पर्यतप्यत ।।2.69.2।।
Meaning
तप्यमानं समाज्ञाय वयस्याः प्रियवादिनः । आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः ।।2.69.3।।
Meaning
वादयन्ति तथा शान्तिं लासयन्त्यपि चापरे । नाटकान्यपरे प्राहुर्हास्यानि विविधानि च ।।2.69.4।।
Meaning
स तैः महात्मा भरतः सखिभिः प्रियवादिभिः । गोष्ठी हास्यानि कुर्वद्भिर्न प्राहृष्यत राघवः ।।2.69.5।।
Meaning
तमब्रवीत्प्रियसखो भरतं सखिभिर्वृतम् । सुहृद्भिः पर्युपासीनः किं सखे नानुमोदसे ।।2.69.6।।
Meaning
एवं ब्रुवाणं सुहृदं भरतः प्रत्युवाच ह । शृणु त्वं यन्निमित्तं मे दैन्यमेतदुपागतम् ।।2.69.7।।
Meaning
स्वप्ने पितरमद्राक्षं मलिनं मुक्तमूर्धजम् । पतन्तमद्रिशिखरात् कलुषे गोमयेह्रदे ।।2.69.8।।
Meaning
प्लवमानश्च मे दृष्टः स तस्मिन् गोमयह्रदे । पिबन्नञ्जलिना तैलं हसन्नपि मुहुर्मुहुः ।।2.69.9।।
Meaning
ततस्तिलौदनं भुक्त्वा पुनः पुनरधः शिराः । तैलेनाभ्यक्तसर्वाङ्गस्तैलमेवावगाहत ।।2.69.10।।
Meaning