Sarga 69: Bharata's Ill Dream
भरतदुःस्वप्नः
bharataduḥsvapnaḥ — word-by-word gloss for all 21 shlokas.
Jump to a shloka · 21 in this sarga
स्वप्नेऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि । उपरुद्धां च जगतीं तमसेव समावृतम् ।।2.69.11।।
Meaning
औपवाह्यस्य नागस्य विषाणं शकलीकृतम् । सहसा चापि संशान्तं ज्वलितं जातवेदसम् ।।2.69.12।।
Meaning
अवतीर्णां च पृथिवीं शुष्कांश्च विविधान् द्रुमान् । अहं पश्यामि विध्वस्तान् सधूमांश्चापि पर्वतान् ।।2.69.13।।
Meaning
पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससम् । प्रहसन्ति स्म राजानं प्रमदाः कृष्णपिङ्गलाः ।।2.69.14।।
Meaning
त्वरमाणश्च धर्मात्मा रक्तमाल्यानुलेपनः । रथेन खरयुक्तेन प्रयातो दक्षिणामुखः ।।2.69.15।।
Meaning
प्रहसन्तीव राजानं प्रमदा रक्तवासिनी । प्रकर्षन्ती मया दृष्टा राक्षसी विकृतानना ।।2.69.16।।
Meaning
एवमेतन्मया दृष्टमिमां रात्रिं भयावहाम् । अहं रामोऽथवा राजा लक्ष्मणो वा मरिष्यति ।।2.69.17।।
Meaning
नरः यानेन यः स्वप्ने खरयुक्तेन याति हि । अचिरात्तस्य धूमाग्रं चितायां सम्प्रदृश्यते ।।2.69.18।।
Meaning
एतन्निमित्तं दीनोऽहं तन्न वः प्रतिपूजये । शुष्यतीव च मे कण्ठो न स्वस्थमिव मे मनः ।।2.69.19।।
Meaning
न पश्यामि भयस्थानं भयं चैवोपधारये । भ्रष्टश्च स्वरयोगो मे छाया चोपहता मम ।।2.69.20।।
Meaning