Sarga 93: Seeing the Forest of Citrakūṭa

चित्रकूटवनप्रेक्षणम्

citrakūṭavanaprekṣaṇam — word-by-word gloss for all 27 shlokas.

Jump to a shloka · 27 in this sarga

Page 1 of 327 shlokas in this sarga (verified max-across-sources)
Shloka 93.1Word-by-word available

तया महत्या यायिन्या ध्वजिन्या वनवासिनः । अर्दिता यूथपा मत्ताः सयूथाः सम्प्रदुद्रुवुः ।।2.93.1।।

Meaning

Shloka 93.2Word-by-word available

ऋक्षाः पृषतसङ्घाश्च रुरवश्च समतन्तः । दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।।2.93.2।।

Meaning

Shloka 93.3Word-by-word available

स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मजः । वृतो महत्या नादिन्या सेनया चतुरङ्गया ।।2.93.3।।

Meaning

Shloka 93.4Word-by-word available

सागरौघनिभा सेना भरतस्य महात्मनः । महीं सञ्छादयामास प्रावृषिद्यामिवाम्बुदः ।।2.93.4।।

Meaning

Shloka 93.5Word-by-word available

तुरङ्गाघैरवतता वारणैश्च महाजवैः । अनालक्ष्या चिरं कालं तस्मिन्काले बभूव भूः ।।2.93.5।।

Meaning

Shloka 93.6Word-by-word available

स यात्वा दूरमध्वानं सुपरिश्रान्तवाहनः । उवाच भरतः श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।।2.93.6।।

Meaning

Shloka 93.7Word-by-word available

यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । व्यक्तं प्राप्ताः स्म तं देशं भरद्वाजो यमब्रवीत् ।।2.93.7।।

Meaning

Shloka 93.8Word-by-word available

अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । एतत्प्रकाशते दूरान्नीलमेघनिभं वनम् ।।2.93.8।।

Meaning

Shloka 93.9Word-by-word available

गिरेः सानूनि रम्याणि चित्रकूटस्य सम्प्रति । वारणैरवमृद्यन्ते मामकैः पर्वतोपमैः ।।2.93.9।।

Meaning

Shloka 93.10Word-by-word available

मुञ्चन्ति कुसुमान्येते नगाः पर्वतसानुषु । नीला इवातपापाये तोयं तोयधरा घनाः ।।2.93.10।।

Meaning