Sarga 93: Seeing the Forest of Citrakūṭa
चित्रकूटवनप्रेक्षणम्
citrakūṭavanaprekṣaṇam — word-by-word gloss for all 27 shlokas.
Jump to a shloka · 27 in this sarga
किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । मृगैः समन्तादाकीर्णं मकरैरिव सागरम् ।।2.93.11।।
Meaning
एते मृगगणा भान्ति शीघ्रवेगाः प्रचोदिताः । वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।।2.93.12।।
Meaning
कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । मेघप्रकाशैः फलकैर्दाक्षिणात्या यथा नराः ।।2.93.13।।
Meaning
निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।।2.93.14।।
Meaning
खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । तं वहत्यनिलः शीघ्रं कुर्वन्निव मम प्रियम् ।।2.93.15।।
Meaning
स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । एतान्सम्पततः शीघ्रं पश्य शत्रुघ्न कानने ।।2.93.16।।
Meaning
एतान्वित्रासितान्पश्य बर्हिणः प्रियदर्शनान् । एतमाविशतः शीघ्रमधिवासं पतत्त्रिणः ।।2.93.17।।
Meaning
अतिमात्रमयं देशो मनोज्ञः प्रतिभाति मा । तापसानां निवासोऽयं व्यक्तं स्वर्गपथो यथा ।।2.93.18।।
Meaning
मृगा मृगीभिः सहिता बहवः पृषता वने । मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिताः ।।2.93.19।।
Meaning
साधुसैन्याः प्रतिष्ठन्तां विचिन्वन्तु च कानने । यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।।2.93.20।।
Meaning