Sarga 20: Kausalyā's Cry

कौसल्याक्रन्दः

kausalyākrandaḥ — word-by-word gloss for all 55 shlokas.

Page 1 of 655 shlokas in this sarga (verified max-across-sources)
Shloka 20.1Word-by-word available

तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ। आर्तशब्दो महाञ्जज्ञे स्त्रीणामन्तःपुरे तदा ।।2.20.1।।

Meaning

Shloka 20.2Word-by-word available

कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च। गतिर्यः शरणं चापि स रामोऽद्य प्रवत्स्यति ।।2.20.2।।

Meaning

Shloka 20.3Word-by-word available

कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा। तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः ।।2.20.3।।

Meaning

Shloka 20.4Word-by-word available

न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्। कृद्धान्प्रसादयन्सर्वान्स इतोऽद्य प्रवत्स्यति ।।2.20.4।।

Meaning

Shloka 20.5Word-by-word available

अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्। यो गतिं सर्वलोकानां परित्यजति राघवम् ।।2.20.5।।

Meaning

Shloka 20.6Word-by-word available

इति सर्वा महिष्यस्ताः विवत्सा इव धेनवः। पतिमाचुक्रुशुश्चैव सस्वरं चापि चुक्रुशुः ।।2.20.6।।

Meaning

Shloka 20.7Word-by-word available

स हि चान्तः पुरे घोरमार्तशब्दं महीपतिः। पुत्रशोकाभिसन्तप्तः श्रुत्वा व्यालीयतासने ।।2.20.7।।

Meaning

Shloka 20.8Word-by-word available

रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः। जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी ।।2.20.8।।

Meaning

Shloka 20.9Word-by-word available

सोऽपश्यत्पुरुषं तत्र वृद्धं परमपूजितम्। उपविष्टं गृहद्वारि तिष्ठतश्चापरान्बहून् ।।2.20.9।।

Meaning

Shloka 20.10Word-by-word available

दृष्ट्वैव तु तदा रामं ते सर्वे सहसोत्थिताः। जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम् ।।2.20.10।।

Meaning