Sarga 20: Kausalyā's Cry
कौसल्याक्रन्दः
kausalyākrandaḥ — word-by-word gloss for all 55 shlokas.
Jump to a shloka · 55 in this sarga
प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः। ब्राह्मणान्वेदसम्पन्नान्वृद्धान्राज्ञाभिसत्कृतान् ।।2.20.11।।
Meaning
प्रणम्य रामस्तान्वृद्धांस्तृतीयायां ददर्श सः। स्त्रियो वृद्धाश्च बालाश्च द्वाररक्षणतत्पराः ।।2.20.12।।
Meaning
वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः। न्यवेदयन्त त्वरिताः राममातुः प्रियं तदा ।।2.20.13।।
Meaning
कौसल्याऽपि तदा देवी रात्रिं स्थित्वा समाहिता। प्रभाते त्वकरोत्पूजां विष्णोः पुत्रहितैषिणी ।।2.20.14।।
Meaning
सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अग्निं जुहोति स्म तदा मन्त्रवत्कृतमङ्गला ।।2.20.15।।
Meaning
प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम्। ददर्श मातरं तत्र हावयन्ती हुताशनम् ।।2.20.16।।
Meaning
देवकार्यनिमित्तं च तत्रापश्यत्समुद्यतम्। दध्यक्षतं घृतं चैव मोदकान्हविषस्तथा ।।2.20.17।।
Meaning
लाजान्माल्यानि शुक्लानि पायसं क्षरं तथा। समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः ।।2.20.18।।
Meaning
तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्। तर्पयन्तीं ददर्शाद्भिर्देवतां देववर्णिनीम् ।।2.20.19।।
Meaning
सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्। अभिचक्राम संहृष्टाः किशोरं बडवा यथा ।।2.20.20।।
Meaning