Sarga 114: Entry into Ayodhyā
अयोध्याप्रवेशः
ayodhyāpraveśaḥ — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
स्निग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभुः । अयोध्यां भरतः क्षिप्रं प्रविवेश महायशाः ।।2.114.1।।
Meaning
बिडालोलूकचरितामालीननरवारणाम् । तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।।2.114.2।।
Meaning
राहुशत्रोः प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । ग्रहेनाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।।2.114.3।।
Meaning
अल्पोष्णक्षुब्धसलिलां घर्मोत्तप्तविहङ्गमाम् । लीनमीनझषग्राहां कृशां गिरिनदीमिव ।।2.114.4।।
Meaning
विधूमामिव हेमाभामध्वराग्नेः समुत्थिताम् । हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।।2.114.5।।
Meaning
विध्वस्तकवचां रुग्णगजवाजिरथध्वजाम् । हतप्रवीरामापन्नां चमूमिव महाहवे ।।2.114.6।।
Meaning
सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।।2.114.7।।
Meaning
त्यक्तां यज्ञायुधैः सर्वैरभिरूपैश्च याजकैः । सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।।2.114.8।।
Meaning
गोष्ठमध्ये स्थितामार्तामचरन्तीं तृणं नवम् । गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।।2.114.9।।
Meaning
प्रभाकराद्यैः सुस्निग्धैः प्रज्वलद्भिरिवोत्तमैः । वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।।2.114.10।।
Meaning