Sarga 37: Vasiṣṭha's Anger over the Bark Garments
चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
cīraparigrahanimittavasiṣṭhakrodhaḥ — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
महामात्रवचः श्रुत्वा रामो दशरथं तदा । अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत् ।।2.37.1।।
Meaning
त्यक्तभोगस्य मे राजन्वने वन्येन जीवतः । किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः ।।2.37.2।।
Meaning
यो हि दत्त्वा गजश्रेष्ठं कक्ष्यायां कुरुते मनः । रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम् ।।2.37.3।।
Meaning
तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते । सर्वाण्येवानुजानामि चीराण्येवाऽनयन्तु मे ।।2.37.4।।
Meaning
खनित्रपिटके चोभे समानयत गच्छतः । चतुर्दश वने वासं वर्षाणि वसतो मम ।।2.37.5।।
Meaning
अथ चीराणि कैकेयी स्वयमाहृत्य राघवम् । उवाच परिधत्स्वेति जनौघे निरपत्रपा ।।2.37.6।।
Meaning
स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते । सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह ।।2.37.7।।
Meaning
लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे । तापसाच्छादने चैव जग्राह पितुरग्रतः ।।2.37.8।।
Meaning
अथाऽत्मपरिधानार्थं सीता कौशेयवासिनी । समीक्ष्य चीरं सन्त्रस्ता पृषती वागुरामिव ।।2.37.9।।
Meaning
सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः । कैकेयीकुशचीरे ते जानकी शुभलक्षणा ।।2.37.10।।
Meaning