Sarga 37: Vasiṣṭha's Anger over the Bark Garments
चीरपरिग्रहनिमित्तवसिष्ठक्रोधः
cīraparigrahanimittavasiṣṭhakrodhaḥ — word-by-word gloss for all 37 shlokas.
Jump to a shloka · 37 in this sarga
अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी । गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत् ।।2.37.11।।
Meaning
कथं नु चीरं बध्नन्ति मुनयो वनवासिनः । इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः ।।2.37.12।।
Meaning
कृत्वा कण्ठे च सा चीरमेकमादाय पाणिना । तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा ।।2.37.13।।
Meaning
तस्यास्तत्क्षिप्रमागम्य रामो धर्मभृतां वरः । चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम् ।।2.37.14।।
Meaning
रामं प्रेक्ष्य तु सीतायाः बध्नन्तं चीरमुत्तमम् । अन्तःपुरगता नार्यो मुमुचुर्वारि नेत्रजम् ।।2.37.15।।
Meaning
उचुश्च परमायस्ता रामं ज्वलिततेजसम् । वत्स नैवं नियुक्तेयं वनवासे मनस्विनी ।।2.37.16।।
Meaning
पितुर्वाक्यानुरोधेन गतस्य विजनं वनम् । तावद्दर्शनमस्यां नः सफलं भवतु प्रभो ।।2.37.17।।
Meaning
लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक । नेयमर्हति कल्याणी वस्तुं तापसवद्वने ।।2.37.18।।
Meaning
कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी । धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि ।।2.37.19।।
Meaning
तासामेवंविधा वाचः शृण्वन्दशरथात्मजः । बबन्धैव तदा चीरं सीतया तुल्यशीलया ।।2.37.20।।
Meaning