← Ayodhyā Kāṇḍa

Sarga 37: Vasiṣṭha's Anger over the Bark Garments

चीरपरिग्रहनिमित्तवसिष्ठक्रोधः

cīraparigrahanimittavasiṣṭhakrodhaḥ — word-by-word gloss for all 37 shlokas.

Page 3 of 437 shlokas in this sarga (verified max-across-sources)
Shloka 37.21Word-by-word available

चीरे गृहीते तु तया समीक्ष्य नृपतेर्गुरुः । निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत् ।।2.37.21।।

Meaning

Shloka 37.22Word-by-word available

अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि । वञ्चयित्वा च राजानं न प्रमाणेऽवतिष्ठसे ।।2.37.22।।

Meaning

Shloka 37.23Word-by-word available

न गन्तव्यं वनं देव्या सीतया शीलवर्जिते । अनुष्ठास्यति रामस्य सीता प्रकृतमासनम् ।।2.37.23।।

Meaning

Shloka 37.24Word-by-word available

आत्मा हि दाराः सर्वेषां दारसङ्ग्रहवर्तिनाम् । आत्मेयमिति रामस्य पालयिष्यति मेदिनीम् ।।2.37.24।।

Meaning

Shloka 37.25Word-by-word available

अथ यास्यति वैदेही वनं रामेण सङ्गता । वयमप्यनुयास्यामः पुरं चेदं गमिष्यति ।।2.37.25।।

Meaning

Shloka 37.26Word-by-word available

अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः । सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम् ।।2.37.26।।

Meaning

Shloka 37.27Word-by-word available

भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः । वने वसन्तं काकुत्थ्समनुवत्स्यति पूर्वजम् ।।2.37.27।।

Meaning

Shloka 37.28Word-by-word available

ततः शून्यां गतजनां वसुधां पादपैः सह । त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता ।।2.37.28।।

Meaning

Shloka 37.29Word-by-word available

न हि तद्भविता राष्ट्रं यत्र रामो न भूपतिः । तद्वनं भविता राष्ट्रं यत्र रामो निवत्स्यति ।।2.37.29।।

Meaning

Shloka 37.30Word-by-word available

न ह्यदत्तां महीं पित्रा भरतः शास्तुमर्हति । त्वयि वा पुत्रवद्वस्तुं यदि जातो महीपतेः ।।2.37.30।।

Meaning