Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
ततः श्रुत्वा महाराजः कैकेय्या दारुणं वचः। चिन्तामभिसमापेदे मुहूर्तं प्रतताप च ।।2.12.1।।
Meaning
किं नु मे यदि वा स्वप्नश्चित्तमोहूऽपि वा मम। अनुभूतोपसर्गो वा मनसो वाऽप्युपद्रवः ।।2.12.2।।
Meaning
इति सञ्चिन्त्य तद्राजा नाभ्यगच्छत्तदासुखम्। प्रतिलभ्य चिरात्सञ्ज्ञां कैकेयीवाक्यतापितः ।।2.12.3।।
Meaning
व्यथितो विक्लवश्चैव व्याघ्रीं दृष्ट्वा यथा मृगः। असंवृतायामासीनो जगत्यां दीर्घमुच्छ्वसन् ।।2.12.4।।
Meaning
मण्डले पन्नगो रुद्धो मन्त्रैरिव महाविषः। अहो धिगिति सामर्षो वाचमुक्त्वा नराधिपः ।।2.12.5।।
Meaning
मोहमापेदिवान्भूयः शोकोपहतचेतनः। चिरेण तु नृपः सञ्ज्ञां प्रतिलभ्य सुदुःखितः ।।2.12.6।।
Meaning
कैकेयीमब्रवीत्क्रुद्धः प्रदहन्निव चक्षुषा। नृशंसे दुष्टचारित्रे कुलस्यास्य विनाशिनि ।।2.12.7।।
Meaning
किं कृतं तव रामेण पापं पापे मयापि वा। यदा ते जननीतुल्यां वृत्तिं वहति राघवः ।।2.12.8।।
Meaning
तस्यैव त्वमनर्थाय किं निमित्तमिहोद्यता। त्वं मयात्मविनाशार्थं भवनं स्वं प्रवेशिता ।।2.12.9।।
Meaning
अविज्ञानान्नृपसुता व्याली तीक्ष्णविषा यथा। जीवलोको यदा सर्वो रामस्याह गुणस्तवम् ।।2.12.10।।
Meaning