Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
अपराधं कमुद्दिश्य त्यक्ष्यामीष्टमहं सुतम्। कौसल्यां वा सुमित्रां वा त्यजेयमपि वा श्रियम् ।।2.12.11।।
Meaning
जीवितं वात्मनो रामं न त्वेव पितृवत्सलम्। परा भवति मे प्रीतिर्दृष्ट्वा तनयमग्रजम् ।।2.12.12।।
Meaning
अपश्यतस्तु मे रामं नष्टा भवति चेतना। तिष्ठेल्लोकः विना सूर्यं सस्यं वा सलिलं विना ।।2.12.13।।
Meaning
न तु रामं विना देहे तिष्ठेत्तु मम जीवितम्। तदलं त्यज्यतामेषः निश्चयः पापनिश्चये ।।2.12.14।।
Meaning
अपि ते चरणौ मूर्ध्ना स्पृशाम्येष प्रसीद मे। किमिदं चिन्तितं पापे त्वया परमदारुणम् ।।2.12.15।।
Meaning
अथ जीज्ञाससे मां त्वं भरतस्य प्रियाप्रिये। अस्तु यत्तत्त्वया पूर्वं व्याहृतं राघवं प्रति ।।2.12.16।।
Meaning
स मे ज्येष्ठः सुतः श्रीमान्धर्मज्येष्ठ इतीव मे। तत्त्वया प्रियवादिन्या सेवार्थं कथितं भवेत् ।।2.12.17।।
Meaning
तच्छ्रुत्वा शोकसन्तप्ता सन्तापयसि मां भृशम्। आविष्टासि गृहं शून्यं सा त्वं परवशं गता ।।2.12.18।।
Meaning
इक्ष्वाकूणां कुले देवि सम्प्राप्तः सुमहानयम्। अनयो नयसम्पन्ने यत्र ते विकृता मतिः ।।2.12.19।।
Meaning
न हि किञ्चिदयुक्तं वा विप्रियं वा पुरा मम। अकरोःस्त्वं विशालाक्षि तेन न श्रद्दधाम्यहम् ।।2.12.20।।
Meaning