Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
ननु ते राघवस्तुल्यो भरतेन महात्मना। बहुशो हि सुबाले त्वं कथाः कथयसे मम ।।2.12.21।।
Meaning
तस्य धर्मात्मनो देवि वने वासं यशस्विनः। कथं रोचयसे भीरु नव वर्षाणि पञ्च च ।।2.12.22।।
Meaning
अत्यन्तसुकुमारस्य तस्य धर्मे धृतात्मनः। कथं रोचयसे वासमरण्ये भृशदारुणे ।।2.12.23।।
Meaning
रोचयस्यभिरामस्य रामस्य शुभलोचने। तव शुश्रूषमाणस्य किमर्थं विप्रवासनम् ।।2.12.24।।
Meaning
रामो हि भरताद्भूयस्तव शुश्रूषते सदा। विशेषं त्वयि तस्मात्तु भरतस्य न लक्षये ।।2.12.25।।
Meaning
शुश्रूषां गौरवं चैव प्रमाणं वचनक्रियाम्। कस्ते भूयस्तरं कुर्यादन्यत्र मनुजर्षभात् ।।2.12.26।।
Meaning
बहूनां स्त्रीसहस्राणां बहूनां चोपजीविनाम्। परिवादोऽपवादो वा राघवे नोपपद्यते ।।2.12.27।।
Meaning
सान्त्वयन् सर्वभूतानि रामः शुद्धेन चेतसा। गृह्णाति मनुजव्याघ्रः प्रियैर्विषयवासिनः ।।2.12.28।।
Meaning
सत्येन लोकान् जयति दीनान् दानेन राघवः। गुरून् शुश्रूषया वीरो धनुषा युधि शात्रवान् ।।2.12.29।।
Meaning
सत्यं दानं तपस्त्यागो मित्रता शौचमार्जवम्। विद्या च गुरुशुश्रूषा ध्रुवाण्येतानि राघवे ।।2.12.30।।
Meaning