Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
तस्मिन्नार्जवसम्पन्ने देवि देवोपमे कथम्। पापमाशंससे रामे महर्षिसमतेजसि ।।2.12.31।।
Meaning
न स्मराम्यप्रियं वाक्यं लोकस्य प्रियवादिनः। स कथं त्वत्कृते रामं वक्ष्यामि प्रियमप्रियम् ।।2.12.32।।
Meaning
क्षमा यस्मिन्दमस्त्यागः सत्यं धर्मः कृतज्ञता। अप्यहिंसा च भूतानां तमृते का गतिर्मम ।।2.12.33।।
Meaning
मम वृद्धस्य कैकेयि गतान्तस्य तपस्विनः। दीनं लालप्यमानस्य कारुण्यं कर्तुमर्हसि ।।2.12.34।।
Meaning
पृथिव्यां सागरान्तायां यत्किञ्चिदधिगम्यते। तत्सर्वं तव दास्यामि मा च त्वां मन्युराविशेत् ।।2.12.35।।
Meaning
अञ्जलिं कुर्मि कैकेयि पादौ चापि स्पृशामि ते। शरणं भव रामस्य माऽधर्मो मामिह स्पृशेत् ।।2.12.36।।
Meaning
इति दुःखाभिसन्तप्तं विलपन्तमचेतनम्। घूर्णमानं महाराजं शोकेन समभिप्लुतम् ।।2.12.37।।
Meaning
पारं शोकार्णवस्याशु प्रार्थयन्तं पुनः पुनः। प्रत्युवाचाथ कैकेयी रौद्रा रौद्रतरं वचः ।।2.12.38।।
Meaning
यदि दत्त्वा वरौ राजन् पुनः प्रत्यनुतप्यसे। धार्मिकत्वं कथं वीर पृथिव्यां कथयिष्यसि ।।2.12.39।।
Meaning
यदा समेता बहवस्त्वया राजर्षयः सह। कथयिष्यन्ति धर्मज्ञास्तत्र किं प्रतिवक्ष्यसि ।।2.12.40।।
Meaning