Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
यस्याः प्रयत्ने जीवामि या च मामभ्यपालयत्। तस्याः कृतं मया मिथ्या कैकेय्या इति वक्ष्यसि ।।2.12.41।।
Meaning
किल्बिषत्वं नरेन्द्राणां करिष्यसि नराधिप। यो दत्वा वरमद्यैव पुनरन्यानि भाषसे ।।2.12.42।।
Meaning
शैब्यः श्येनकपोतीये स्वमांसं पक्षिणे ददौ। अलर्कश्चक्षुषी दत्त्वा जगाम गतिमुत्तमाम् ।।2.12.43।।
Meaning
सागरः समयं कृत्वा न वेलामतिवर्तते। समयं मानृतं कार्षीः पुर्ववृत्तमनुस्मरन् ।।2.12.44।।
Meaning
स त्वं धर्मं परित्यज्य रामं राज्येऽभिषिच्य च। सह कौलस्यया नित्यं रन्तुमिच्छसि दुर्मते ।।2.12.45।।
Meaning
भवत्वधर्मो धर्मो वा सत्यं वा यदि वाऽनृतम्। यत्त्वया संश्रुतं मह्यं तस्य नास्ति व्यतिक्रमः ।।2.12.46।।
Meaning
अहं हि विषमद्यैव पीत्वा बहु तवाग्रतः। पश्यतस्ते मरिष्यामि रामो यद्यभिषिच्यते ।।2.12.47।।
Meaning
एकाहमपि पश्येयं यद्यहं राममातरम्। अञ्जलिं प्रतिगृह्णन्तीं श्रेयो ननु मृतिर्मम ।।2.12.48।।
Meaning
भरतेनात्मना चाहं शपे ते मनुजाधिप। यथा नान्येन तुष्येयमृते रामविवासनात् ।।2.12.49।।
Meaning
एतावदुक्त्वा वचनं कैकेयी विरराम ह। विलपन्तं च राजानं न प्रतिव्याजहार सा ।।2.12.50।।
Meaning