Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
श्रुत्वा तु राजा कैकेय्या वृतं परमदारुणम्। रामस्य च वने वासमैश्वर्यं भरतस्य च ।।2.12.51।।
Meaning
नाभ्यभाषत कैकेयीं मुहूर्तं व्याकुलेन्द्रियः। प्रैक्षतानिमिषो देवीं प्रियामप्रियवादिनीम् ।।2.12.52।।
Meaning
तां हि वज्रसमां वाचमाकर्ण्य हृदयाप्रियाम्। दुःखशोकमयीं घोरां राजा न सुखितोऽभवत् ।।2.12.53।।
Meaning
स देव्या व्यवसायं च घोरं च शपथं कृतम्। ध्यात्वा रामेति निःश्वस्य च्छिन्नस्तरुरिवापतत् ।।2.12.54।।
Meaning
नष्टचित्तो यथोन्मत्तो विपरीतो यथातुरः। हृततेजा यथा सर्पो बभूव जगतीपतिः ।।2.12.55।।
Meaning
दीनया तु गिरा राजा इति होवाच कैकयीम्। अनर्थमिममर्थाभं केन त्वमुपदर्शिता ।।2.12.56।।
Meaning
भूतोपहतचित्तेव ब्रुवन्ती मां न लज्जसे। शीलव्यसनमेतत्ते नाभिजानाम्यहं पुरा ।।2.12.57।।
Meaning
बालायास्तत्त्विदानीं ते लक्षये विपरीतवत्। कुतो वा ते भयं जातं या त्वमेवंविधं वरम् ।।2.12.58।।
Meaning
राष्ट्रे भरतमासीनं वृणीषे राघवं वने। विरमैतेन भावेन त्वमेतेनानृतेन वा ।।2.12.59।।
Meaning
यदि भर्तुः प्रियं कार्यं लोकस्य भरतस्य च। नृशंसे पापसङ्कल्पे क्षुद्रे दुष्कृतकारिणि ।।2.12.60।।
Meaning