Sarga 12: Daśaratha Tries to Turn Kaikeyī
कैकेयीनिवर्तनप्रयासः
kaikeyīnivartanaprayāsaḥ — word-by-word gloss for all 114 shlokas.
Jump to a shloka · 114 in this sarga
किं नु दुःखमलीकं वा मयि रामे च पश्यसि। न कथञ्चिदृते रामाद्भरतो राज्यमावसेत् ।।2.12.61।।
Meaning
रामादपि हितं मन्ये धर्मतो बलवत्तरम्। कथं द्रक्ष्यामि रामस्य वनं गच्छेति भाषिते ।।2.12.62।।
Meaning
मुखवर्णं विवर्णं तं यथैवेन्दुमुपप्लुतम्। तां हि मे सुकृतां बुद्धिं सुहृद्भिः सह निश्चिताम् ।।2.12.63।।
Meaning
कथं द्रक्ष्याम्यपावृत्तां परैरिव हतां चमूम्। किं मां वक्ष्यन्ति राजानो नानादिग्भ्यः समागताः ।।2.12.64।।
Meaning
बालो बतायमैक्ष्वाकश्चिरं राज्यमकारयत्। यदा तु बहवो वृद्धाः गुणवन्तो बहुश्रुताः ।।2.12.65।।
Meaning
परिप्रक्ष्यन्ति काकुत्स्थं वक्ष्यामि किमहं तदा। कैकेय्या क्लिश्यमानेन रामः प्रव्राजितो मया ।।2.12.66।।
Meaning
यदि सत्यं ब्रवीम्येतत्तदसत्यं भविष्यति। किं मां वक्ष्यति कौसल्या राघवे वनमास्थिते ।।2.12.67।।
Meaning
किं चैनां प्रतिवक्ष्यामि कृत्वा विप्रियमीदृशम्। यदा यदा हि कौसल्या दासीवच्च सखीव च ।।2.12.68।।
Meaning
भार्यावद्भगिनीवच्च मातृवच्चोपतिष्ठति। सततं प्रियकामा मे प्रियपुत्रा प्रियंवदा ।।2.12.69।।
Meaning
न मया सत्कृता देवि सत्कारार्हा कृते तव। इदानीं तत्तपति मां यन्मया सुकृतं त्वयि ।।2.12.70।।
Meaning