Sarga 79: The Ministers' Plea Refused
सचिवप्रार्थनाप्रतिषेधः
sacivaprārthanāpratiṣedhaḥ — word-by-word gloss for all 17 shlokas.
Jump to a shloka · 17 in this sarga
ततः प्रभातसमये दिवसे च चतुर्दशे । समेत्य राजकर्तारः भरतं वाक्यमब्रुवन् ।।2.79.1।।
Meaning
गतो दशरथः स्वर्गं यो नो गुरुतरः गुरुः । रामं प्रव्राज्य वै ज्येष्ठं लक्ष्मणं च महाबलम् ।।2.79.2।।
Meaning
त्वमद्य भव नो राजा राजपुत्र महायशः । सङ्गत्या नापराध्नोति राज्यमेतदनायकम् ।।2.79.3।।
Meaning
आभिषेचनिकं सर्वमिदमादाय राघव । प्रतीक्षते त्वां स्वजनः श्रेणयश्च नृपात्मज ।।2.79.4।।
Meaning
राज्यं गृहाण भरत पितृपैतामहं महत् । अभिषेचय चात्मानं पाहि चास्मान्नरर्षभ ।।2.79.5।।
Meaning
आभिषेचनिकं भाण्डं कृत्वा सर्वं प्रदक्षिणम् । भरतस्तं जनं सर्वं प्रत्युवाच धृतव्रतः ।।2.79.6।।
Meaning
ज्येष्ठस्य राजता नित्यमुचिता हि कुलस्य नः । नैवं भवन्तः मां वक्तुमर्हन्ति कुशला जनाः ।।2.79.7।।
Meaning
रामः पूर्वो हि नो भ्राता भविष्यति महीपतिः । अहं त्वरण्ये वत्स्यामि वर्षाणि नवपञ्च च ।।2.79.8।।
Meaning
युज्यतां महती सेना चतुरङ्गमहाबला । आनयिष्याम्यहं ज्येष्ठं भ्रातरं राघवं वनात् ।।2.79.9।।
Meaning
आभिषेचनिकं चैव सर्वमेतदुपस्कृतम् । पुरःकृत्य गमिष्यामि रामहेतोर्वनं प्रति ।।2.79.10।।
Meaning