Sarga 74: Bharata Upbraids Kaikeyī
कैकेय्याक्रोशः
kaikeyyākrośaḥ — word-by-word gloss for all 36 shlokas.
Jump to a shloka · 36 in this sarga
तां तथा गर्हयित्वा तु मातरं भरतस्तदा । रोषेण महताविष्टः पुनरेवाब्रवीद्वचः ।।2.74.1।।
Meaning
राज्याद्भ्रंशस्व कैकेयि नृशंसे दुष्टचारिणि । परित्यक्ता च धर्मेण मा मृतं रुदती भव ।।2.74.2।।
Meaning
किं नु तेऽदूषयद्राजा रामः वा भृशधार्मिकः । ययोः मृत्युर्विवासश्च त्वत्कृते तुल्यमागतौ ।।2.74.3।।
Meaning
भ्रूणहत्यामसि प्राप्ता कुलस्यास्य विनाशनात् । कैकेयि नरकं गच्छ मा च भर्तुः सलोकताम् ।।2.74.4।।
Meaning
यत्त्वया हीदृशं पापं कृतं घोरेण कर्मणा । सर्वलोकप्रियं हित्वा ममाप्यापादितं भयम् ।।2.74.5।।
Meaning
त्वत्कृते मे पिता वृत्तः रामश्चारण्यमाश्रितः । अयशो जीवलोके च त्वयाहं प्रतिपादितः ।।2.74.6।।
Meaning
मातृरूपे ममामित्रे नृशंसे राज्यकामुके । न तेऽहमभिभाष्योऽस्मि दुर्वृत्ते पतिघातिनि ।।2.74.7।।
Meaning
कौसल्या च सुमित्रा च याश्चान्या मम मातरः । दुःखेन महताविष्टास्त्वां प्राप्य कुलदूषिणीम् ।।2.74.8।।
Meaning
न त्वमश्वपतेः कन्या धर्मराजस्य धीमतः । राक्षसी तत्र जातासि कुलप्रध्वंसिनी पितुः ।।2.74.9।।
Meaning
यत्त्वया धार्मिको रामोनित्यं सत्यपरायणः । वनं प्रस्थापितो दुःखात् पिता च त्रिदिवं गतः ।।2.74.10।।
Meaning