Sarga 38: The People's Outcry

जनाक्रोशः

janākrośaḥ — word-by-word gloss for all 18 shlokas.

Jump to a shloka · 18 in this sarga

Page 1 of 218 shlokas in this sarga (verified max-across-sources)
Shloka 38.1Word-by-word available

तस्यां चीरं वसानायां नाथवत्यामनाथवत् । प्रचुक्रोश जनः सर्वो धिक्त्वां दशरथं त्विति ।।2.38.1।।

Meaning

Shloka 38.2Word-by-word available

तेन तत्र प्रणादेन दुःखितः स महीपतिः । चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः ।।2.38.2।।

Meaning

Shloka 38.3Word-by-word available

स निश्श्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत् । कैकेयि कुशचीरेण न सीता गन्तुमर्हति ।।2.38.3।।

Meaning

Shloka 38.4Word-by-word available

सुकुमारी च बाला च सततं च सुखोचिता । नेयं वनस्य योग्येति सत्यमाह गुरुर्मम ।।2.38.4।।

Meaning

Shloka 38.5Word-by-word available

इयं हि कस्यापकरोति किञ्चित्तपस्विनी राजवरस्य कन्या । या चीरमासाद्य जनस्य मध्ये स्थिता विसञ्ज्ञा श्रमणीव काचित् ।।2.38.5।।

Meaning

Shloka 38.6Word-by-word available

चीराण्यपास्याज्जनकस्य कन्या नेयं प्रतिज्ञा मम दत्तपूर्वा । यथासुखं गच्छतु राजपुत्री वनं समग्रा सह सर्वरत्नैः ।।2.38.6।।

Meaning

Shloka 38.7Word-by-word available

अजीवनार्हेण मया नृशंसा कृता प्रतिज्ञा नियमेन तावत् । त्वया हि बाल्यात्प्रतिपन्नमेतत् तन्मां दहेद्वेणुमिवात्मपुष्पम् ।।2.38.7।।

Meaning

Shloka 38.8Word-by-word available

रामेण यदि ते पापे किञ्चित्कृतमशोभनम् । अपकारः क इह ते वैदेह्या दर्शितोऽथ मे ।।2.38.8।।

Meaning

Shloka 38.9Word-by-word available

मृगीवोत्फुल्लनयना मृदुशीला तपस्विनी । अपकारं कमिह ते करोति जनकात्मजा ।।2.38.9।।

Meaning

Shloka 38.10Word-by-word available

ननु पर्याप्तमेतत्ते पापे रामविवासनम् । किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः ।।2.38.10।।

Meaning