Sarga 38: The People's Outcry
जनाक्रोशः
janākrośaḥ — word-by-word gloss for all 18 shlokas.
Jump to a shloka · 18 in this sarga
प्रतिज्ञातं मया तावत्त्वयोक्तं देवि शृण्वता । रामं यदभिषेकाय त्वमिहागतमब्रवीः ।।2.38.11।।
Meaning
तत्त्वेतत्समतिक्रम्य निरयं गन्तुमिच्छसि । मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम् ।।2.38.12।।
Meaning
इतीव राजा विलपन्महात्मा शोकस्य नान्तं स ददर्श किञ्चित् । भृशातुरत्वाच्च पपात भूमौ तेनैव पुत्रव्यसने निमग्नः ।।2.38.13।।
Meaning
एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम् । अवाक्छिरसमासीनमिदं वचनमब्रवीत् ।।2.38.14।।
Meaning
इयं धार्मिक कौसल्या मम माता यशस्विनी । वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते ।।2.38.15।।
Meaning
मया विहीनां वरद प्रपन्नां शोकसागरम् । अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि ।।2.38.16।।
Meaning
पुत्रशोकं यथा नर्छेत्त्वया पूज्येन पूजिता । मां हि सञ्चिन्तयन्तीयमपि जीवेत्तपस्विनी ।।2.38.17।।
Meaning
इमां महेन्द्रोपम जातगर्धिनीं तथा विधातुं जननीं ममार्हसि । यथा वनस्थे मयि शोककर्शिता न जीवितं न्यस्य यमक्षयं व्रजेत् ।।2.38.18।।
Meaning