Sarga 56: Dwelling at Citrakūṭa
चित्रकूटनिवासः
citrakūṭanivāsaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
अथ रात्र्यां व्यतीतायामवसुप्तमनन्तरम् । प्रबोधयामास शनैः लक्ष्मणं रघुनन्दनः ।।2.56.1।।
Meaning
सौमित्रे शृणु वन्यानां वल्गु व्याहरतां स्वनम् । सम्प्रतिष्ठामहे कालः प्रस्थानस्य परन्तप ।।2.56.2।।
Meaning
स सुप्तः समये भ्रात्रा लक्ष्मणः प्रतिबोधितः । जहौ निद्रां च तन्द्रीं च प्रसक्तं च पथिश्रमम् ।।2.56.3।।
Meaning
ततौत्थाय ते सर्वे स्पृष्ट्वा नद्याः शिवं जलम् । पन्थानमृषिणादिष्टं चित्रकूटस्य तं ययुः ।।2.56.4।।
Meaning
ततः सम्प्रस्थितः काले रामः सौमित्रिणा सह । सीतां कमलपत्राक्षीमिदं वचनमब्रवीत् ।।2.56.5।।
Meaning
आदीप्तानिव वैदेहि सर्वतः पुष्पितान्नगान् । स्वैः पुष्पैः किंशुकान् पश्य मालिनः शिशिरात्यये ।।2.56.6।।
Meaning
पश्य भल्लातकान् फुल्लान् नरैः अनुपसेवितान् । फलपत्रैः अवनतान् नूनं शक्ष्यामि जीवितुम् ।।2.56.7।।
Meaning
पश्य द्रोणप्रमाणानि लम्बमानानि लक्ष्मण । मधूनि मधुकारीभिः सम्भृतानि नगे नगे ।।2.56.8।।
Meaning
एष क्रोशति नत्यूहस्तं शिखी प्रतिकूजति । रमणीये वनोद्देशे पुष्पसंस्तरसङ्कटे ।।2.56.9।।
Meaning
मातङ्गयूथानुसृतं पक्षिसङ्घानुनादितम् । चित्रकूटमिमं पश्य प्रवृद्धशिखरं गिरिम् ।।2.56.10।।
Meaning