← Ayodhyā Kāṇḍa

Sarga 56: Dwelling at Citrakūṭa

चित्रकूटनिवासः

citrakūṭanivāsaḥ — word-by-word gloss for all 38 shlokas.

Page 2 of 438 shlokas in this sarga (verified max-across-sources)
Shloka 56.11Word-by-word available

समभूमितले रम्ये द्रुमैर्बहुभिरावृते । पुण्ये रंस्यामहे तात चित्रकूटस्य कानने ।।2.56.11।।

Meaning

Shloka 56.12Word-by-word available

ततस्तौ पादचारेण गच्छन्तौ सह सीतया । रम्यमासेदतुः शैलं चित्रकूटं मनोरमम् ।।2.56.12।।

Meaning

Shloka 56.13Word-by-word available

तं तु पर्वतमासाद्य नानापक्षिगणायुतम् । बहुमूलफलं रम्यं सम्पन्नं सरसोदकम् ।।2.56.13।।

Meaning

Shloka 56.14Word-by-word available

मनोज्ञोऽयं गिरिः सौम्य नानाद्रुमलतायतः । बहुमूलफलो रम्यः स्वाजीवः प्रतिभाति मे ।।2.56.14।।

Meaning

Shloka 56.15Word-by-word available

मुनयश्च महात्मानो वसन्त्यस्मिन् शिलोच्चये । अयं वासो भवेत्तावदत्र सौम्य रमेमहि ।।2.56.15।।

Meaning

Shloka 56.16Word-by-word available

इति सीता च रामश्च लक्ष्मणश्च कृताञ्जलिः । अभिगम्याश्रमं सर्वे वाल्मीकिमभिवादयन् ।।2.56.16।।

Meaning

Shloka 56.17Word-by-word available

तान्महर्षिः प्रमुदितः पूजयामास धर्मवित् । आस्यतामिति चोवाच स्वागतं तु निवेद्य च ।।2.56.17।।

Meaning

Shloka 56.18Word-by-word available

ततोऽब्रवीन्महाबाहुर्लक्ष्मणं लक्ष्मणाग्रजः । संनिवेद्य यथान्यायमात्मानमृषये प्रभुः ।।2.56.18।।

Meaning

Shloka 56.19Word-by-word available

लक्ष्मणानय दारूणि दृढानि च वराणि च । कुरुष्वावसथं सौम्य वासे मे अभिरतं मनः ।।2.56.19।।

Meaning

Shloka 56.20Word-by-word available

तस्य तद्वचनं श्रुत्वा सौमित्रिर्विविधान् द्रुमान् । आजहार ततश्चक्रे पर्णशालामरिन्दमः ।।2.56.20।।

Meaning