Sarga 56: Dwelling at Citrakūṭa
चित्रकूटनिवासः
citrakūṭanivāsaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
तां निष्ठितां बद्धकटां दृष्ट्वा रामः सुदर्शनाम् । शुश्रूषमाणमेकाग्रमिदं वचनमब्रवीत् ।।2.56.21।।
Meaning
ऐणेयं मांसमाहृत्य शालां यक्ष्यामहे वयम् । कर्तव्यं वास्तुशमनं सौमित्रे चिरजीविभिः ।।2.56.22।।
Meaning
मृगं हत्वानय क्षिप्रं लक्ष्मणेह शुभेक्षण । कर्तव्यः शास्त्रदृष्टो हि विधिर्धर्ममनुस्मर ।।2.56.23।।
Meaning
भ्रातुर्वचनमाज्ञाय लक्ष्मणः परवीरहा । चकार स यथोक्तं च तं रामः पुनरब्रवीत् ।।2.56.24।।
Meaning
ऐणेयं श्रपयस्वैतच्छालां यक्ष्यमहे वयम् । त्वरसौम्य मुहूर्तोऽयं ध्रुवश्च दिवसोऽप्ययम् ।।2.56.25।।
Meaning
स लक्ष्मणः कृष्णमृगं हत्वा मेध्यं प्रतापवान् । अथ चिक्षेप सौमित्रिः समिद्धे जातवेदसि ।।2.56.26।।
Meaning
तं तु पक्वं समाज्ञाय निष्टप्तं छिन्नशोणितम् । लक्ष्मणः पुरुषव्याघ्रमथ राघवमब्रवीत् ।।2.56.27।।
Meaning
अयं कृष्णः समाप्ताङ्गः शृतः कृष्णमृगे यथा । देवतां देवसङ्काश यजस्व कुशलो ह्यसि ।।2.56.28।।
Meaning
रामः स्नात्वा तु नियतः गुणवान् जप्यकोविदः । सङ्ग्रहेणाकरोत्सर्वान् मन्त्रान् सत्रावसानिकान् ।।2.56.29।।
Meaning
इष्ट्वा देवगणान् सर्वान् विवेशावसथं शुचिः । बभूव च मनोह्लादो रामस्यामिततेजसः ।।2.56.30।।
Meaning