Sarga 56: Dwelling at Citrakūṭa
चित्रकूटनिवासः
citrakūṭanivāsaḥ — word-by-word gloss for all 38 shlokas.
Jump to a shloka · 38 in this sarga
वैश्वदेवबलिं कृत्वा रौद्रं वैष्णवमेव च । वास्तुसंशमनीयानि मङ्गलानि प्रवर्तयन् ।।2.56.31।।
Meaning
जपं च न्यायतः कृत्वा स्नात्वा नद्यां यथाविधि । पापसंशमनं रामश्चकार बलिमुत्तमम् ।।2.56.32।।
Meaning
वेदिस्थलविधानानि चैत्यान्यायतनानि च । आश्रमस्यानुरूपाणि स्थापयामास राघवः ।।2.56.33।।
Meaning
वन्यैर्माल्यैः फलैर्मूलैः पक्वैर्मांसैर्यथाविधि । अद्भिर्जपैश्च वेदोक्तैर्दर्भैश्च ससमित्कुशैः ।।2.56.34।।
Meaning
तौ तर्पयित्वा भूतानि राघवौ सह सीतया । तदा विविशतुः शालां सुशुभां शुभलक्षणौ ।।2.56.35।।
Meaning
तां वृक्षपर्णच्छदनां मनोज्ञां । यथाप्रदेशं सुकृतां निवाताम् । वासाय सर्वे विविशुः समेताः । सभां यथा देवगणाः सुधर्माम् ।।2.56.36।।
Meaning
अनेकनानामृगपक्षिसङ्कुले । विचित्रपुष्पस्तबकैर्द्रुमैः युते । वनोत्तमे व्यालमृगानुनादिते । तथा विजह्रुः सुसुखं जितेन्द्रियाः ।।2.56.37।।
Meaning
सुरम्यमासाद्य तु चित्रकूटं । नदीं च तां माल्यवतीं सुतीर्थाम् । ननन्द हृष्टः मृगपक्षिजुष्टां । जहौ च दुःखं पुरविप्रवासात् ।।2.56.38।।
Meaning