Sarga 44: Sumitrā Consoles Kausalyā
सुमित्राश्वासनम्
sumitrāśvāsanam — word-by-word gloss for all 31 shlokas.
Jump to a shloka · 31 in this sarga
विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम् । इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत् ।।2.44.1।।
Meaning
तवार्ये सद्गुणैर्युक्तः स पुत्रः पुरुषोत्तमः । किं ते विलपितेनैवं कृपणं रुदितेन वा ।।2.44.2।।
Meaning
यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः । साधु कुर्वन्महात्मानं पितरं सत्यवादिनाम् ।।2.44.3।।
Meaning
शिष्टैराचरिते सम्यक्छश्वत्प्रेत्य फलोदये । रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन ।।2.44.4।।
Meaning
वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन्सदाऽनघः । दयावान्सर्वभूतेषु लाभस्तस्य महात्मनः ।।2.44.5।।
Meaning
अरण्यवासे यद्दुःखं जानती वै सुखोचिता । अनुगच्छति वैदेही धर्मात्मानं तवात्मजम् ।।2.44.6।।
Meaning
कीर्तिभूतां पताकां यो लोके भ्रामयति प्रभुः । दर्मसत्यव्रतधनः किं न प्राप्तस्तवात्मजः ।।2.44.7।।
Meaning
व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम् । न गात्रमंशुभिः सूर्यः सन्तापयितुमर्हति ।।2.44.8।।
Meaning
शिवः सर्वेषु कालेषु काननेभ्यो विनिस्सृतः । राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः ।।2.44.9।।
Meaning
शयानमनघं रात्रौ पितेवाभिपरिष्वजन् । रश्मिभिः संस्पृशन्शीतैः चन्द्रमाह्लादयिष्यति ।।2.44.10।।
Meaning